हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Goda Stuti – गोदा स्तुतिः
श्रीविष्णुचित्तकुलनन्दनकल्पवल्लीं
श्रीरङ्गराजहरिचन्दनयोगदृश्याम् ।
साक्षात्क्षमां करुणया कमलामिवान्यां
गोदामनन्यशरणः शरणं प्रपद्ये ॥ १ ॥
वैदेशिकः श्रुतिगिरामपि भूयसीनां
वर्णेषु माति महिमा न हि मादृशां ते ।
इत्थं विदन्तमपि मां सहसैव गोदे
मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः ॥ २ ॥
त्वत्प्रेयसः श्रवणयोरमृतायमानां
तुल्यां त्वदीयमणिनूपुरशिञ्जितानाम् ।
गोदे त्वमेव जननि त्वदभिष्टवार्हां
वाचं प्रसन्नमधुरां मम संविधेहि ॥ ३ ॥
कृष्णान्वयेन दधतीं यमुनानुभावं
तीर्थैर्यथावदवगाह्य सरस्वतीं ते ।
गोदे विकस्वरधियां भवती कटाक्षात्
वाचः स्फुरन्ति मकरन्दमुचः कवीनाम् ॥ ४ ॥
अस्मादृशामपकृतौ चिरदीक्षितानाम्
अह्नाय देवि दयते यदसौ मुकुन्दः ।
तन्निश्चितं नियमितस्तव मौलिदाम्ना
तन्त्रीनिनादमधुरैश्च गिरां निगुम्फैः ॥ ५ ॥
शोणाधरेऽपि कुचयोरपि तुङ्गभद्रा
वाचां प्रवाहनिवहेऽपि सरस्वती त्वम् ।
अप्राकृतैरपि रसैर्विरजा स्वभावात्
गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ ६ ॥
वल्मीकतः श्रवणतो वसुधात्मनस्ते
जातो बभूव स मुनिः कविसार्वभौमः ।
गोदे किमद्भुतमिदं यदमी स्वदन्ते
वक्त्रारविन्दमकरन्दनिभाः प्रबन्धाः ॥ ७ ॥
भोक्तुं तव प्रियतमं भवतीव गोदे
भक्तिं निजां प्रणयभावनया गृणन्तः ।
उच्चावचैर्विरहसङ्गमजैरुदन्तैः
शृङ्गारयन्ति हृदयं गुरवस्त्वदीयाः ॥ ८ ॥
मातः समुत्थितवतीमधिविष्णुचित्तं
विश्वोपजीव्यममृतं वचसा दुहानाम् ।
तापच्छदं हिमरुचेरिव मूर्तिमन्यां
सन्तः पयोधिदुहितुः सहजां विदुस्त्वाम् ॥ ९ ॥
तातस्तु ते मधुभिदः स्तुतिलेशवश्यात्
कर्णामृतैः स्तुतिशतैरनवाप्तपूर्वम् ।
त्वन्मौलिगन्धसुभगामुपहृत्य मालां
लेभे महत्तरपदानुगुणं प्रसादम् ॥ १० ॥
दिग्दक्षिणाऽपि परिपक्त्रिमपुण्यलभ्यात्
सर्वोत्तरा भवति देवि तवावतारात् ।
यत्रैव रङ्गपतिना बहुमानपूर्वं
निद्रालुनापि नियतं निहिताः कटाक्षाः ॥ ११ ॥
प्रायेण देवि भवतीव्यपदेशयोगात्
गोदावरी जगदिदं पयसा पुनीते ।
यस्यां समेत्य समयेषु चिरं निवासात्
भागीरथीप्रभृतयोऽपि भवन्ति पुण्याः ॥ १२ ॥
नागेशयः सुतनु पक्षिरथः कथं ते
जातः स्वयंवरपतिः पुरुषः पुराणः ।
एवं विधाः समुचितं प्रणयं भवत्याः
सन्दर्शयन्ति परिहासगिरः सखीनाम् ॥ १३ ॥
त्वद्भुक्तमाल्यसुरभीकृतचारुमौलेः
हित्वा भुजान्तरगतामपि वैजयन्तीम् ।
पत्युस्तवेश्वरि मिथः प्रतिघातलोलाः
बर्हातपत्ररुचिमारचयन्ति भृङ्गाः ॥ १४ ॥
आमोदवत्यपि सदा हृदयङ्गमाऽपि
रागान्विताऽपि ललिताऽपि गुणोत्तराऽपि ।
मौलिस्रजा तव मुकुन्दकिरीटभाजा
गोदे भवत्यधरिता खलु वैजयन्ती ॥ १५ ॥
त्वन्मौलिदामनि विभोः शिरसा गृहीते
स्वच्छन्दकल्पितसपीतिरसप्रमोदाः ।
मञ्जुस्वना मधुलिहो विदधुः स्वयं ते
स्वायंवरं कमपि मङ्गलतूर्यघोषम् ॥ १६ ॥
विश्वासमानरजसा कमलेन नाभौ
वक्षःस्थले च कमलास्तनचन्दनेन ।
आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे
धत्ते नतेन शिरसा तव मौलिमालाम् ॥ १७ ॥
चूडापदेन परिगृह्य तवोत्तरीयं
मालामपि त्वदलकैरधिवास्य दत्ताम् ।
प्रायेण रङ्गपतिरेष बिभर्ति गोदे
सौभाग्यसम्पदभिषेकमहाधिकारम् ॥ १८ ॥
तुङ्गैरकृत्रिमगिरः स्वयमुत्तमाङ्गैः
यं सर्वगन्ध इति सादरमुद्वहन्ति ।
आमोदमन्यमधिगच्छति मालिकाभिः
सोऽपि त्वदीयकुटिलालकवासिताभिः ॥ १९ ॥
धन्ये समस्तजगतां पितुरुत्तमाङ्गे
त्वन्मौलिमाल्यभरसम्भरणेन भूयः ।
इन्दीवरस्रजमिवादधति त्वदीया-
न्याकेकराणि बहुमानविलोकितानि ॥ २० ॥
रङ्गेश्वरस्य तव च प्रणयानुबन्धात्
अन्योन्यमाल्यपरिवृत्तिमभिष्टुवन्तः ।
वाचालयन्ति वसुधे रसिकास्त्रिलोकीं
न्यूनाधिकत्वसमताविषयैर्विवादैः ॥ २१ ॥
दूर्वादलप्रतिमया तव देहकान्त्या
गोरोचनारुचिरया च तथेन्दिरायाः ।
आसीदनुज्झितशिखावलकण्ठशोभं
माङ्गल्यदं प्रणमतां मधुवैरिगात्रम् ॥ २२ ॥
अर्च्यं समर्च्य नियमैर्निगमप्रसूनैः
नाथं त्वया कमलया च समेयिवांसम् ।
मातश्चिरं निरविशन्निजमाधिराज्यं
मान्या मनुप्रभृतयोऽपि महीक्षितस्ते ॥ २३ ॥
आर्द्रापराधिनि जनेऽप्यभिरक्षणार्थं
रङ्गेश्वरस्य रमया विनिवेद्यमाने ।
पार्श्वे परत्र भवती यदि तत्र नासीत्
प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ २४ ॥
गोदे गुणैरपनयन् प्रणतापराधान्
भ्रूक्षेप एव तव भोगरसानुकूलः ।
कर्मानुबन्धि फलदानरतस्य भर्तुः
स्वातन्त्र्यदुर्व्यसनमर्मभिदा निदानम् ॥ २५ ॥
रङ्गे तटिद्गुणवतो रमयैव गोदे
कृष्णाम्बुदस्य घटितां कृपया सुवृष्ट्या ।
दौर्गत्यदुर्विषविनाशसुधानदीं त्वां
सन्तः प्रपद्य शमयन्त्यचिरेण तापान् ॥ २६ ॥
जातापराधमपि मामनुकम्प्य गोदे
गोप्त्री यदि त्वमसि युक्तमिदं भवत्याः ।
वात्सल्यनिर्भरतया जननी कुमारं
स्तन्येन वर्धयति दष्टपयोधराऽपि ॥ २७ ॥
शतमखमणिनीला चारु कल्हारहस्ता
स्तनभरनमिताङ्गी सान्द्रवात्सल्यसिन्धुः ।
अलकविनिहिताभिः स्रग्भराकृष्टनाथा
विलसतु हृदि गोदा विष्णुचित्तात्मजा नः ॥ २८ ॥
इति विकसितभक्तेरुत्थतां वेङ्कटेशात्
बहुगुणरमणीयां वक्ति गोदास्तुतिं यः ।
स भवति बहुमान्यः श्रीमतो रङ्गभर्तुः
चरणकमलसेवां शाश्वतीमभ्युपैष्यन् ॥ २९ ॥
इति श्रीवेदान्तदेशिकविरचिता गोदास्तुतिः ।
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.